Preachings and Adhikari for preaching- my opinion

vrajagopalan57

Active member
ऊँ नमो नारायणाय।
१२/०३/२०२६
प्रिय-बन्धवः!
हरिः ऊॅं। नमोsनमः।🙏
कृपया अधोलिखितं पठित्वा सजागरूकतया अवगत्य स्वजीवने आचरन्तु!

*मम मतम्*—
उपदेशः दातुं सुकरः, किन्तु तस्य आचरणं कठिनम् (न तु असम्भवम्)।
अतः यत् स्वयं न आचरति तत् अन्येभ्यः न उपदिशेत्।

– ववासुदेवः राजगोपाल: अय्यङ्गारः 🤘
*सुखं कदा दास्यति जीवनमिति मा पृच्छ कर्हिचित्।*
*यतः सर्वं लभन्तेऽपि जना न सन्तोषमाप्नुयुः॥*

*दिशाहीनता दुःखहेतुर्न तु कालस्य दुर्लभता।*
*चतुर्विंशतिघण्टयुक्तो दिवसः सर्वमानवेषु ॥*

*यत्र यत्र गच्छसि त्वं तत्र प्रेमदयापदम्।*
*पदचिह्नानि सन्त्यज्य लोकहिताय जीवितम् ॥*

*वेदनां यो न जानाति दुःखात् शिक्षां न विन्दति।*
*स जीवने न धैर्येण सङ्घर्षं सोढुमर्हति॥*

*पतनैर्विघ्नदोषैश्च यो न शिक्षां प्रपद्यते।*
*स कथं फीनिक्सपक्षीव पुनरुत्थातुमर्हति॥*

*असफलतां विना लोके सफलताया न बोध्यते।*
*यः पतित्वा पुनरुत्थाय स एव जयमश्नुते॥*

*नैतानि ग्रन्थमात्रेण ज्ञायन्ते जीवनस्य तत्त्वानि।*
*स्वानुभवेन एव नृणां जीवनमार्गो विशुध्यति॥*
शुभं भूयात्।🤘
संकलितं सम्पादितं च —
श्रीश्रीरामानुजाचार्यस्य दासः
वासुदेवः राजगोपाल: अय्यङ्गारः 🤘
 
Back
Top